Responsive Menu
Add more content here...

CHAPTER 1 — वन्दे भारतमातरम्

  1. पाठान्तर्गत-संवादाः

Q1. ‘वन्दे मातरम्इति गीतस्य अस्य कः भावः? What is the meaning of the song “Vande Mataram”? A: वन्दे मातरम् इत्यस्य अर्थः अस्ति यत् ‘अहं मातुः वन्दनं करोमि’ इति। “Vande Mataram” means “I bow to the mother.”

Q2. इदं गीतं कः लिखितवान्? Who wrote this song? A: महान् देशभक्तः बङ्किमचन्द्रः चट्टोपाध्यायः १८८२ तमे वर्षे ‘आनन्दमठः’ इति उपन्यासं लिखितवान्। तस्मिन् एव उपन्यासे इदं गीतं वर्तते। The great patriot Bankimchandra Chattopadhyay wrote the novel “Anandamath” in 1882; this song appears in it.

Q3. इदं गीतं कस्यां भाषायाम् अस्ति? In which language is this song? A: एतत् गीतं संस्कृतं बाङ्ग्ला च इति भाषाद्वये वर्तते। This song exists in two languages — Sanskrit and Bengali.

Q4. अस्मिन् गीते वर्ण्यः विषयः कः अस्ति? What subject does this song describe? A: अस्मिन् गीते भारतमातुः स्वरूपस्य रम्यं वर्णनम् अस्ति। This song beautifully describes the form of Mother India.

Q5. एतस्य गीतस्य किं वैशिष्ट्यम्? What is special about this song? A: स्वतन्त्रतायाः आन्दोलने सर्वे देशभक्ताः एतत् गीतं मन्त्रम् इव गायन्ति स्म। सम्प्रति अपि इदं श्रुत्वा गीत्वा च वयं प्रेरिताः भवामः। Freedom fighters sang it like a mantra during the independence movement; even today it inspires us.

  1. वयम् अभ्यासं कुर्मः
  2. एकपदेन/पदद्वयेन उत्तराणि : Answer in one or two words
प्रश्नः Eng Translation उत्तरम्
पर्वतराजः कः? Who is the king of mountains? हिमालयः
समुद्रः कस्याः चरणौ प्रक्षालयति? Whose feet does the ocean wash? भारतमातुः
त्रिवर्णयुतः ध्वजः कुत्र विलसति? Where does the tricolour shine? भारतमातुः हस्ते
ध्वजस्थितः केशरवर्णः किं वक्तुं प्रेरयति? What does saffron inspire us to say? ‘जयतु सैनिकः’
कृषकबान्धवाः भूमिं कैः सिञ्चन्ति? With what do farmers water the land? स्वेदबिन्दुभिः
केषां धवलं यशः ध्वजमध्ये विलसति? Whose fame shines white in the flag’s centre? वैज्ञानिकानाम्
सूर्यः कं विना सञ्चरति? Without what does the sun move? विरामं

 

  1. पूर्णवाक्येन उत्तराणि : Answer in full sentences

(क) पवित्राः नद्यः काः?Which are the sacred rivers? गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः। Ganga, Yamuna, Saraswati, Sindhu, Brahmaputra, Gandaki, Mahanadi, Narmada, Godavari, Krishna, Kaveri, etc.

(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति?Why do people come from many regions? तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुं जनाः आगच्छन्ति। They come to apply the dust of holy places on their foreheads.

(ग) धर्मचक्रं कं भावं बोधयति?What idea does the Dharma Chakra convey? ‘चलनीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं बोधयति। “Keep moving on the path of duty, never stop, keep moving.”

(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता?How did the land become through farmers’ effort? हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता। It became green, prosperous, and lush with crops.

(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्?In which science fields have Indians gained fame? अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु। Atomic science, computer science, medicine, space science, weapons science, etc.

(च) अन्ते सर्वे किं गीतं गायन्ति?What do they sing at the end? “वयं बालका भारतभक्ताः, वयं बालिका भारतभक्ताः। वयं हि सर्वे भारतभक्ताः, पृथ्वीं स्वर्गं जेतुं शक्ताः॥” “We are boy/girl patriots of India, all able to conquer earth and heaven.”

 

  1. प्रश्ननिर्माणम् : Form a question on the underlined word (उदाहरणम्: अस्माकं वत्सला भारतमाता → केषां वत्सला भारतमाता?)
  • समुद्रः भारतमातुः चरणौ प्रक्षालयति। → कः भारतमातुः चरणौ प्रक्षालयति?
  • जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति। → के तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति?
  • वीराः भारतमातुः सर्वदा सेवां कृतवन्तः। → के भारतमातुः सर्वदा सेवां कृतवन्तः?
  • ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति। → किं वक्तुम् अस्मान् प्रेरयति?
  • नदी कष्टानि सहमाना प्रवहति। → का कष्टानि सहमाना प्रवहति?
  • वयं गौरववर्धनार्थं प्रयत्नं कुर्मः। → के गौरववर्धनार्थं प्रयत्नं कुर्मः?
  1. रूपाणि (एक./द्वि./बहु.)
शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चरण द्वितीया चरणम् चरणौ चरणान्
नदी प्रथमा नदी नद्यौ नद्यः
ललाट सप्तमी ललाटे ललाटयोः ललाटेषु
देश चतुर्थी देशाय देशाभ्याम् देशेभ्यः
चक्र प्रथमा चक्रम् चक्रे चक्राणि
वैज्ञानिक तृतीया वैज्ञानिकेन वैज्ञानिकाभ्याम् वैज्ञानिकैः
अस्मद् प्रथमा अहम् आवाम् वयम्
विज्ञान षष्ठी विज्ञानस्य विज्ञानयोः विज्ञानानाम्
  1. अनुवादः (English)
  • भारतभूमौ पवित्राः नद्यः प्रवहन्ति। — Sacred rivers flow across the land of Bharat.
  • भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते। — The Himalaya shines like a crown on India’s head.
  • भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते। — Great mountains stand in the land of Bharat.
  • राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति। — The flag has saffron, white, and green colours.
  • वयं भारते जन्म प्राप्तवन्तः। — We were born in India.
  1. विभक्तिः/वचनम्
शब्दः विभक्तिः वचनम्
भारतमाता प्रथमा एकवचनम्
नद्यः प्रथमा बहुवचनम्
ललाटे सप्तमी एकवचनम्
तीर्थक्षेत्राणाम् षष्ठी बहुवचनम्
देशस्य षष्ठी एकवचनम्
बलिदानम् द्वितीया एकवचनम्
कृषीवलबान्धवाः प्रथमा बहुवचनम्
अस्मान् द्वितीया बहुवचनम्
क्षेत्रेषु सप्तमी बहुवचनम्
  1. पाठे प्रयुक्तानि क्रियापदानि

शृणुमः, जानीमः, अस्ति, वर्तते, शोभते, प्रक्षालयति, विराजन्ते, प्रवहन्ति, आगच्छन्ति, विलसति, सूचयति, प्रेरयति, सिञ्चन्ति, बोधयति, सञ्चरति, कुर्मः

  1. लट्-लकार रूपाणि

भू: भवति/भवतः/भवन्ति · भवसि/भवथः/भवथ · भवामि/भवावः/भवामः अस्: अस्ति/स्तः/सन्ति · असि/स्थः/स्थ · अस्मि/स्वः/स्मः इष् (इच्छ्): इच्छति/इच्छतः/इच्छन्ति · इच्छसि/इच्छथः/इच्छथ · इच्छामि/इच्छावः/इच्छामः गम् (आगच्छ्): आगच्छति/आगच्छतः/आगच्छन्ति · आगच्छसि/आगच्छथः/आगच्छथ · आगच्छामि/आगच्छावः/आगच्छामः

(each triple = एकवचनम् / द्विवचनम् / बहुवचनम्)

Leave a Comment